श्री महाकाल शनि मृत्युंजय स्तोत्रम्

Share this post

✍️ देवभूमि न्यूज 24

🪔 ध्यानम्
ध्यायेत् नीलं शनिं घोरं त्रिपुरारिं त्रिदण्डकम्।
खड्गहस्ते दधानन्तं वामदक्षिणयोः क्रमात्॥

गृध्रोपरिगतं शुष्कं दीर्घाङ्गं काललोचनम्।
महाकालं शनिं शम्भुं त्रिपुरारिं त्रिलोचनम्॥

महोग्रं क्रूरकर्माणं देवदेवं शनैश्चरम्।
चतुर्भुजं सूर्यसुतं प्रशान्तं योगेश्वरम्॥

🪔 स्तोत्रम्

ॐ ह्रीं श्रीकालरूपिं नमस्तेऽस्तु सर्वपापप्रणाशकः।
त्रिपुरस्य वधार्थाय शम्भुजाताय ते नमः॥

ॐ नमः कालशरीराय कालान्नुनाय ते नमः।
कालहेतो नमस्तुभ्यं कालानन्दाय वै नमः॥

ॐ अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः।
कालदेवाय कालाय कालकालाय ते नमः॥

ॐ निमेषादि महाकल्प कालरूपं च भैरवम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ दातारं सर्वभव्यानां भक्तानामभयंकरम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ कर्तारं सर्वदुःखानां दुष्टानां भयवर्धनम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ हर्तारं ग्रहजातानां फलानामघकारिणाम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ सर्वेषामेव भूतानां सुखदं शान्तिमव्ययम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ कारणं सुखदुःखानां भावाभावस्वरूपिणम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ अकालमृत्युहरणम् अपमृत्युनिवारणम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ कालरूपेण संसारं भक्षयन्तं महाग्रहम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घलोचनम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ ग्रहाणां ग्रहरूपं च सर्वग्रह निवारणम्।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम्॥

ॐ कालस्य वशगाः सर्वे कालः कस्यचिद् वशः।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम्॥

ॐ कालदेव जगत्सर्वं काले एव विलीयते।
कालरूपं स्वयं शम्भुः कालात्मा ग्रहदेवता॥

ॐ चण्डीशो रुद्र डाकिन्याक्रान्तः चण्डीश उच्यते।
विद्युदाकलितो नद्यां समारूढो रसाधिपः॥

ॐ चण्डीशः शुकसंयुक्तो जिह्व्या ललितः पुनः।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युतयुतः॥

ॐ ह्रीं नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः॥

॥ इति महाकाल शनि मृत्युंजय स्तोत्रं समाप्तम् ॥

 *ॐ शं शनैश्चराय नमः।*

📢 देश-दुनिया, प्रदेश और गांव की हर बड़ी खबर के लिए पढ़ते रहिए। 🗞️ देवभूमि न्यूज 24 🇮🇳 मेरा गांव, मेरा देश